________________
ऽध्यायः] अध्यात्मनिर्णयवर्णनम् २३२५
सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रधा। द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः ॥१६३।। हिता नाम हि ता नाड्यस्तासां मध्ये शशिप्रभम् । मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः ॥१६४।। स शेयस्तं विदित्वेह पुनराजायते न तु। अन्तर्धानं स्मृतिः कान्तिदृष्टिश्रोत्रज्ञता परा ॥१६॥ निजं कायं समुत्सृज्य परकायप्रवेशनम् । अर्थानां छन्दतः सृष्टिर्योगसिद्ध स्तु लक्षणम् ॥१६॥ सिद्ध योगे त्यजन् देहममृतत्वाय कल्पते । श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्धथानं विशिष्यते॥१६॥ ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनुत्तमा । ध्यानप्रकरणं ह्यतत् षडशीत्यधिकं शतम् ॥१६८।। इति श्रीबृहद्योगियाज्ञवल्क्ये अध्यात्मनिर्णयो नाम
नवमोऽध्यायः ॥६