________________
२३२४ बृहद्योगियाज्ञवल्क्यस्मृतिः [नवमो
बुद्धयहंकारमनसां विषयानिन्द्रियाण्यपि। एकस्थाननिरोधेन ध्यानमित्यभिधीयते ॥१८२।। इन्द्रियाणीन्द्रियार्थाश्च बुद्धावेव निवेशयेत् ।। मनो बुद्धिरहंकारों भूतानि प्रकृतावपि ॥१८३।। प्रधानं पुरुषे योज्यं स न्यासः परिकीर्तितः । इन्द्रियेभ्यः परे ह्यर्था अर्थेभ्यः परमं मनः ॥१८४।। मनसश्च परा बुद्धिबुद्धरात्मा महान् परः । महतः परमव्यक्तमव्यक्तात् पुरुषः परः ॥१८॥ पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः । ऐशान्यभिमुखो भूत्वा उपविश्याऽसने शुभे ॥१८६।। नात्युच्छिते नातिनीचे चैलाजिनकुशोत्तरे । ततोपविश्य सुमु (सु) खं गुरु चादौ नमस्य च ॥१८७।। पद्मासनं च बध्वा वै दीर्घ प्रणवमुच्चरेत् । ऊरुस्थोत्तानचरणः सव्ये न्यस्येतरं करम् ॥१८८।। उत्तानं किञ्चिदुन्नाम्य मुखं विष्टभ्य चोरसा। निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तान्न संस्पृशेत् ॥१८॥ तालुस्थाऽचलजिह्वश्च संवृतास्यः सुनिश्चलः । संनियम्येन्द्रियग्राम पाषाण इव निश्चलः ॥१०॥ द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् । ततो ध्येयः स्थितो योऽसौ हृदये दीपवत् प्रभुः ॥१६॥ धारयेत्तत्र चात्मानं धारणं धारयेवुधः । मोहजालमपास्याथ पुरुषो दृश्यते हि यः ॥१२॥