________________
ऽध्यायः] अध्यात्मवणनम्
२३२३ इह कर्मप्रभोगाय ते संसरति सोऽवशः । एतद्यो न विजानाति मार्गद्वितयमात्मनः ॥१७॥ दंदशूकः पतङ्गो वा भवेत् कीटोऽथवा क्रिमिः। अलाबुतन्तुसदृशं शिराजालं तु संततम् ॥१७२।। सपद्मसंपुटं चित्रं छिद्रितं कर्णिकोज्वलम् । तस्य मध्यगतो ह्यात्मा रश्मिभिः परिवारितः ॥१७३॥ प्रदीपतापप्रकाश्य (शै) रवाप्नोति न चान्तरम् । अङ्गुष्ठपरिमाणं च ज्वलते स्वेन तेजसा ॥१४॥ प्रादेशमानं तपते वितस्ति च प्रकाशते । तत्प्रदेशस्थितो ह्यात्मा चेतनः सर्वतो विभुः ॥१७॥ तत्त्वानि तत्र वै देवे तिष्ठन्त्यत्र समन्ततः। आप्यायन्ते च तेनैव दशनान्नात्र संशयः ॥१७६॥ न च पश्यन्ति पुरुषं ह्यन्तस्थं परमं विभुम् । तं चिन्तयेत् समाधिस्थो यं ज्ञात्वा विप्रमुच्यते॥१७७।। मुक्तो न जायते भूयः प्राप्य विष्णोः परं पदम् । ध्यानेन सदृशं नास्ति शोधनं पापकर्मणाम् ।।१७।। श्वपाकेश्वपि भुञ्जानो ध्यायी नैव तु लिप्यते । ध्यानमेव परं ब्रह्म ध्यानमेव परं तपः ॥१७६।। ध्यानमेव परं शौचं तद्धाम (दयानं) परमं स्मृतम् । सर्वपापप्रसक्तोऽपि ध्यायेन्निमिषमच्युतम् ॥१८०॥ पुनस्तपस्वी भवति पतितपावनपावनः । ध्यानमेव प्रवक्ष्यामि करणैः क्रियते यथा ॥१८॥