________________
ऽध्यायः] अन्नमहत्त्ववर्णनम्
२३२१ यो ह्यविद्वान् समश्नाति अन्नं मोहसमन्वितः । भस्मनीव हुतं हव्यं तद्वदन्नममन्त्रकम् ॥१४६।। एवं ज्ञात्वा तु यो विप्रो विधिनान्नं समश्नुते । आत्मानं च तथान्नं च दातारं चैव तारयेत् ॥१५०।। तर्पितं च भवेत्तेन विश्वं भुवनसप्तकम् । दैव्ये पित्र्ये च यद्दत्तं तदक्षय्यं भवत्यपि ॥१५॥ एवं हि सर्वभावस्थं विदित्वा परमेश्वरम् । काष्ठादौ हि तृणान्ते च पाषाणान्तर्गतेऽपि च । ॥१५॥ ब्रह्मादिस्तम्बपर्यन्तमेवं व्याप्य स तिष्ठति ।। पाषाणमणि धातूनां तेजोरूपेण संस्थितः ॥१५३।। वृक्षोषधितृणानां च रसरूपेण तिष्ठति । तन्मात्रभूतो भूतानां विश्वरूपेण संस्थितः ॥१५४॥ एवं वेत्ति य आत्मानमेकधा संप्रतिष्ठितम् । ज्ञात्वा चोपासते सम्यक् सोऽमृतत्वाय कल्पते ॥१५॥ आदित्ये हृदये चैवमग्नौ व्योम्नि तथा परे । एक एव भवेदात्मा पञ्चधाऽवस्थितस्तु सः ॥१५६।। आदित्ये चैव हृदये चैकीभूतं विचिन्तयेत् । सर्वोपनिषदां चैव उपास्यैषा उदाहृता ॥१५७।। आदित्यो ब्रह्म इत्येतन्मित्राद्युपनिषत्सु च । छान्दोगे वृहदारण्ये तैत्तिरीये तथैव च ॥१५८।। एतदेव मनुप्रोक्तं देवानां चोपजीवनम् । पार्श्वे बाह्य तथा पृष्ठे द्यौरस्य परिकल्पिता ॥१५६।।