SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] अन्नमहत्त्ववर्णनम् २३१६ पञ्चमण्डलमध्यस्थो द्रष्टव्यो योगचक्षुषा । रविमध्ये स्थितः सोमः सोममध्ये हुताशनः ।।१२८।। तेजोमध्ये स्थितः सत्यः सत्यमध्ये स्थितोऽच्युतः । अग्निमध्ये रविस्थानं रविमध्ये च चन्द्रमाः ॥१२।। तस्यमध्येकुसं (?) विद्यात्ततः सृष्टिः प्रजायते । सूर्य भित्त्वा यथा चन्द्रश्चन्द्रमाश्च तथामृतम् ॥१३०॥ तत्रस्थं च शुभं वणं तदृष्ट वाप्यमृती भवेत् । अन्नप्राणो मनश्चैव विज्ञानानन्द एव च ॥१३॥ प्राणो व्यानो ह्यपानश्च समानोदान एव च। शब्दः स्पर्शस्तदा रूपं रसो गन्धश्च पञ्चमम् ॥१३२।। पञ्चमध्यगतः षष्ठो भुङ्क्त देहगतान् गुणान् ॥१३३।। शब्दादीनां च पञ्चानामुपलब्धिस्तु या स्थिता । चेतसा यस्तु गृह्णाति वुद्धयवस्थितमीश्वरम् ।।१३४॥ पुरुपाख्यः स विज्ञेयो भो भावः स उच्यते । अव्यक्तन च रूपेण वैश्वानरमुखेन च ॥१३॥ अन्नं रसमयं कृत्स्नं प्रकृत्याऽऽपादितं च यत् । सर्व प्रत्युफ्भोगार्थ वर्तते परमात्मनः ॥१३६॥ त्रिविधान्नं त्रिधा भोक्ता वेदितव्यं प्रयत्नतः । शरीरमापः सोमश्च त्रिविधं ह्यन्नमुच्यते ॥१३७।। प्राणस्त्वग्निस्तथाऽऽदित्यस्त्रिभोक्ता एवमेव तत् । अमृतं कल्पयित्वा च यदन्नं समुपागतम् ॥१३८!!
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy