________________
२३१४
बृहद्योगियाज्ञवल्क्यस्मृतिः [नवमोरसानि यानि मेध्यानि रश्मिभिः संप्रकर्षति । दिव्या शिवतमा ह्यापः सौम्यास्ताः संभवन्ति हि ॥७४॥ अक्षेत्रेभ्यश्च एतेभ्यो ह्यमेध्याद् गृह्यते रसः (१) अर्थवाङ्गगिरसेभ्यश्च संभवेद्वकृतं जगत् ॥७॥ अश्माशनिरवश्याया नागकूष्माण्डराक्षसाः। स्तेनास्तेन हि जीवन्ति सौम्येन सुरमानवाः ॥६॥ अन्नदः सर्वभूतानां भूर्भुवःस्वर्निवासिनाम्। ह [वृ) ष्टिप्रकाशे (शा) वश्यायनीहाराशनिमारुतैः ।।७७|| तामसान् यक्षभूतानि नागकूष्माण्डनैतान् । तदन्नेन बिभयेकोऽमृतवृष्टया चराचरान् ॥७॥ एष धाता विधाता च ब्रह्मा विष्णुमहेश्वरः । धनदः पावकः कालो वरुणेन्द्रानिलाः शशी ||७|| मित्रो धाता भगस्त्वष्टा पूषार्यमांशुरेव च। पर्यायनामभिश्चैष एक एव निगद्यते ॥८॥ विशनात् सवभूतानां विष्णुरित्यभिधीयते। पश्यते सर्वभूतानां कर्म एष शुभाऽशुभम् ॥॥ छिन्दते पूर्वदेहस्थं विपाकं वै शुभाऽशुभम् । तस्माद्धाता विधाता च कीत्यते वेदचिन्तकैः ॥२॥ बृहत्वाद् बृहणत्वाञ्च सामऋग्यजुषां तथा। त्रयाणां धारणाच्चैव ब्रह्मा तेन निगद्यते
॥३॥ रोदनाद्रावणाद्रागाद्रहणाद्रुद्र उच्यते महानीशश्च भूतानां महेश्वर इति स्मृतः ||