________________
२३१०
बृहद्योगियाज्ञवल्क्यस्मृतिः [नवमोएवं सति शरीरस्थः सपिवत् (र्वत) परमेश्वरः । विनाचोपासनाव न करोति हितं नृषु ॥३१॥ कर्माणि ह्यविनाशीनि बीजवत् प्रभवन्ति च । तानि योगाग्निदग्धानि न प्ररोहन्ति वै पुनः ॥३२॥ एतस्मात् कारणाद्धयानं धारणां प्राणसंयमम् ।। कुर्याद्यत्नेन योगज्ञः कर्मसंन्यासचिन्तनम् ॥३३॥ परिज्ञानाद्भवेन्मुक्तिरेतदालस्यक्षणम् । कामक्लेशभयाञ्चव कर्म नेच्छन्त्यपण्डिताः ॥३४॥ यमैश्च नियमैश्चैव आसनै. प्राणसंयमैः । प्रत्याहारेण ध्यानेन धारणाभिः समाधिना ॥३॥ अष्टाङ्गेन तु योगेन उपास्यात्मा विमुच्यते। अणिमादि तथैश्वयं प्रत्यक्षं जायते ध्रुवम् ॥३६॥ प्रणवव्याहृतिभ्यां च सावित्र्या त्रितयेन च । उपास्यं त्रितयं ब्रह्म आत्मा ह्यत्र प्रतिष्ठितः ॥३७॥ विद्या जपश्च चिन्ता च एतद्धि त्रितयं स्मृतम् । एतेन त्रितयेनाथ उपास्यात्मा विमुच्यते ॥३८।। प्रणवाद्या भवेद्विद्या प्राणायामस्तपः स्मृतम् । ध्यानं च धारणा चैव चिन्ता ह्यषा उदाहृता ॥३६॥ सावित्र्याश्चैव माहात्म्यं ज्ञात्वा चैव यथार्थतः । तस्यां यदुक्त चोपास्य ब्रह्मभूयाय कल्पते ॥४०॥ तच्छब्दोन तु यच्छब्दो वोद्धव्यः सततं बुधैः । उदाहृते तु तच्छन्दे यच्छब्द उदितो भवेत् ॥४॥