________________
ऽध्यायः] ध्यानविधिवर्णनम्
२३०६ तस्मादशं विनिष्क्रान्तं जीवभूतं सनातनम् । ब्रह्मणः परमं ब्रह्म ज्योतिषां ज्योतिरुत्तमम् ॥२१॥ हृदये सर्वभूतानां जीवभूतः स तिष्ठति ।। स एव भगवान् विष्णुर्वेदान्तैरुपगीयते ॥२२॥ ईश्वरं पुरुषाख्यं तु सत्यधर्माणमव्ययम् । भर्गाख्यं विष्णुसंशं तु यं ज्ञात्वाऽमृतमश्नुते ॥२३॥ हृढ्योम्नि तपते ह्यष बाह्य सूर्यस्य चान्तरे। अग्नौ ह्यधूमके ह्यष ज्योतिश्चित्रतरङ्गवत् ॥२४॥ हृद्याकाशे तु यो जीवः साधकैरुपगीयते । स एवाऽऽदित्यरूपेण बहिस्तम (नभोसि राजते ॥२५॥ तस्य चान्तर्गतं धाम सूक्ष्मं प्राकाश्यमेव च । स चात्मा सर्वभूतानां चेतोमात्रस्वरूपकः ॥२६॥ एकधा यो विजानाति ज्ञात्वा चैनमुपासते । स परं विद्यते व्योम ब्रह्माणं समुपाश्नुते (?) ।।२७।। ज्ञानकर्मसमायोगात् परमाप्नोति पूरुषम् । पृथग्भावे न सिध्येत उभे तस्मात् समाश्रयेत् ॥२८॥ ज्ञानं प्रधानं न तु कर्महीनं ।
कर्म प्रधानं न तु बुद्धिहीनम् ।। तस्माद्वयोरेव भवेत सिद्धि ।
न ह्य कपक्षो विहगः प्रयाति ॥२६॥ गवां सर्पिः शरीरस्थं न करोत्यङ्गपोषणम् । निःसृतं कर्मचरितं पुनस्तस्यैव भेषजम् ॥२०॥