________________
अथ नवमोऽध्यायः
ध्यानविधिवर्णनम् ध्यानस्य तु विधिं वक्ष्ये शृण्वन्तु ऋषयः सदा । एभ्यस्तु पुनरावृत्तिः कदाचिदिह दृश्यते ॥१॥ ध्यानं कृत्वा चतुर्थं तु न भूयो जन्म चाप्नुयात् । ततः सम्यक् प्रवक्ष्यामि प्राणायामचतुर्थकम् ॥ २॥ बाह्यस्तु विषयाक्षेपचित्तविक्षेपवर्जितः। मानसे विमले शान्ते स्थितं विष्णुं हृदि क्षिपेत् ॥ ३॥ तद्धयानं तत्तु वै योगो मोक्षमार्गप्रसाधकम् । ओं भूर्भुवः स्वमहर्जनस्तपः सत्यमित्येवं ब्रह्मवैदिकम् ।।४।। एतदुच्चार्य वै विप्रः परे धाग्नि नियोजयेत् । हृद्यग्निश्चैव वायुश्च जीवेशः समुदाहृतः ॥ ५ ॥ एषां ह्यन्तःशरीरस्थं ओंकारेणोपलक्ष्यते । ओंकारं पद्मनालेन उद्धृत्योपरि योजयेत् ॥ ६॥ आ(अ)प्राणाच्छून्यभूतं तु चेतोङ्ग जीवसंज्ञकम् । जप(जाय)ते तु यतस्तस्मात् पुनस्तत्र निवेशयेत् ॥ ७॥ घण्टाशब्दवदोंकारमुपासीत समाहितः । पुरुषं निर्मलं शुद्ध पश्यत्यत्र न संशयः ॥ ८॥ कुण्डलाकृतिसंस्थानं प्रसुप्तोरगसंनिभम् । तन्मध्ये संस्थितो ह्यात्मा धामात्मा बिन्दुलक्षणः ॥ ६ ॥