________________
२३०६
बृहद्योगियाज्ञवल्क्यस्मृतिः
[ अष्टमो
प्राणायामस्य लक्षणम् ।
एवं त्रिविधमुद्दिष्ट स्मृतिदृष्ट भवेदेतत् सिद्धान्ते त्वेतदन्यथा ॥४७॥ मात्राप्रमाणयोगेन प्राणापाननिरोधनात् । ओंकारेणैव कर्तव्यः प्राणायामो यथोदितः || ४८ || मात्रायोगप्रमाणेन प्रणवं परिचिन्तयेत् । मृदुमध्योत्तमत्वाच्च त्रिविधः सोऽपि कथ्यते ॥ ४६ ॥ एवं तु त्रिविधं कृत्वा प्राणायामं विधानतः । प्रत्याहारं ततः पश्चाश्चिन्तयेत्तन्निबोधत ॥ ५०|| वायुर्बाह्य यथा देहे गृहीतस्तन्न (तः स तु ) कोष्ठगः । शनैः शनैर्निरोद्धव्यः प्रत्याहारः स उच्यते ॥ ५१|| इन्द्रियाणां तु सर्वेषां या वृत्तिस्तु प्रकीर्तिता । मनसा प्रतिहर्तव्या प्रत्याहारस्ततः स्मृतः ॥५२॥ सर्वाङ्गाणि यथा कूर्मो दृष्ट्वा संकोचयेत् क्षणात् । तथेन्द्रियाणीन्द्रियार्थात् तानि प्रत्याहरेद्बुधः ||५३ || संकल्पोऽध्यवसायश्च अभिमानस्तथैव च । तथैव वायवः सूक्ष्मा निरोद्धव्याः प्रयत्नतः ||५४|| अतीतानागतेभ्यश्च कामेभ्यस्तु पुनः पुनः । एकत्र धारयेद्यस्तु सोऽमृतत्वाय कल्पते ||३५|| शतत्रयं तु श्लोकानामष्टात्रिंशाधिकं तथा । स्नानस्य निर्णयः प्रोक्तः शिष्याणां हितकाम्यया || ५६ || इति श्रीबृहद्योगियाज्ञवल्क्ये प्राणायामप्रत्याहारनिर्णयो ( नाम ) अष्टमोऽध्यायः ॥