________________
ऽध्यायः] प्राणायामप्रत्याहारनिर्णयवर्णनम् : २३०५
प्राणायामशतं कायं सर्वपापप्रणाशनम् । उपपातकजातीनामनादिष्टस्य चैव हि ॥३६॥ यदहा कुरुते पापं कर्मणा मनसा गिरा । त्रिकालसंध्याकरणात् प्राणायामैय॑पोहति ॥३७|| ब्रह्महा च सुरापश्च अगम्यागमने रतः। सुवर्णस्तेयि चौरश्च गोनो विस्रम्भघातकः ॥३८॥ शरणागतधाती च कूटसाक्षी ह्यकार्यकृत् । एवमादिष्वथान्येषु पापेष्वभिरताश्चिरम् ॥३॥ प्राणायामशतं कुर्युः सूर्यस्योदयनं प्रति । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥४०॥ सूर्यस्योदयनं प्राप्य निर्मला गतकिल्विषाः । भवन्ति भास्कराकारा विधूमा इव पावकाः ॥४१॥ ध्यानेन सदृशं नास्ति शोधनं पापकर्मणाम् । श्वपाकेष्वपि भुञ्जानो ध्यायी नैव तु लिप्यते ॥४२॥ पूरके विष्णुसायुज्यं कुम्भके ब्रह्मणोऽन्तिकं । रेचनेन तृतीयेन प्राप्नुयादैश्वरं पदम् ॥४३॥ न प्राणेनाप्यपानेन वेगाद्वायुं समुत्सृजेत्। . येन सक्त न करस्थांश्च प्राणा(ण) योगेन चालयेत् ॥४४॥ शनैर्नासापुटैर्वायुमुत्सृजेन्न च वेगतः। न कम्पयेच्छरीरं तु स योगी परमो मतः ॥४॥ प्राणस्यायमनं कृत्वा आचमेत् प्रयतोऽपि सन् । आन्तरं स्विद्यते यस्मात्तस्मादाचमनं स्मृतम् ॥४६॥