________________
२३००
बृहद्योगियाज्ञवल्क्यस्मृति:
सर्वत्र मार्जनं कर्म अब्लिङ्गानामुदाहृतम् । कोकिलो राजपुत्रश्च द्रुपदामार्षमुच्यते ॥ १७६॥ अनुष्टुभं भवेच्छन्द आपश्चैव तु दैवतम् । सौत्रामण्यवभृथके स्नाने तद्विनियोजनम् ॥ १८०॥ द्रुपदा नाम सावित्री यजुर्वेदे प्रतिष्ठिता । अन्तर्जले त्रिरावर्त्य ब्रह्महत्यां व्यपोहति ॥ १८१॥ आपः पुण्याः समादाय त्रिः पठेद् द्रुपदामृचम् । तत्तोयं मूर्ध्नि विन्यस्य सर्वपापैः प्रमुच्यते ॥१८२॥ एवं ज्ञात्वा तु मन्त्राणां विनियोगं द्विजोत्तमाः । संध्यां यद्वदुपासीत तथा सवं निबोधत ॥ १८३ || ऐशान्यभिमुखो भूत्वा शुचिः प्रयतमानसः । आचान्तः पुनराचामेदृतमित्यभिमन्त्रय च आन्तरं शुध्यति वमन्नपानमलीकृतम् । त्रिवर्त्य तु सावित्रीं प्रणवं व्याहृतीस्तथा ॥१८५॥ मार्जनं च तथा कृत्वा आपोहिष्ठेति भार्जयेत् । सार्धामृचं तु प्रक्षिप्य ऊर्ध्वं सार्द्धामधः क्षिपेत् ॥ १८६॥ अधोभागविसृष्टाभिः कलुषं याति संक्षयम् । सर्वतीर्थाभिषेकश्च ऊर्ध्वं संमार्जनाद्भवेत् ॥ १८७॥ अघमर्षणसूक्तन मार्जनं कारयेत्ततः ।
।। १८४॥
[ सप्तमो
शन्न आपश्च द्रुपदां कामतः संप्रयोजयेत् ॥१८८॥ ओंकारपूर्वा गायत्री अब्लिङ्गान्यघमर्षणम् । ज्ञातव्यं ब्रह्म चैतद् पुरा दृष्ट स्वयंभुवा ॥ १८६॥