________________
ऽध्यायः] जपविधिवर्णनम्
२२६६ स्नानमन्तर्जले चैव मार्जनाचमने तथा। जलाभिमन्त्रणं चैव तीर्थस्य परिकल्पनम् ॥१६॥ अघमर्षणसूक्त न त्रिरावृत्तेन नित्यशः। अन्यांश्च वारुणान् मन्त्रान् कामतः संप्रयोजयेत् ॥१७०॥ यथाकालं यथादेशं ज्ञात्वा ज्ञात्वा विचक्षणः । स्नानाचरणमित्येतत् समुद्दिष्टं महात्मभिः । वारुणानथवा मन्त्रान् कामतः संप्रयोजयेत् ॥१७१॥ अघमर्षणसूक्तस्य ऋषिश्चैवाघमर्षणः। अनुष्टुप् च भवेच्छन्दो भाववृत्तं च दैवतम् ॥१७२।। अश्वमेघावभृथके विनियोगस्तु कल्पितः । सर्वपापापनोदार्थ स्मृतिकारैरुदालतम् ॥१७३।। ननु भूताण्डपिण्डस्य स्थित्युत्पत्तिलयं तथा । सूक्तऽस्मिन् व्याहृतं सर्वमेतन्मन्त्रार्थमस्य वै ॥१७४।। हत्वा लोकानपीमांस्त्रीस्त्रिः पठेघमर्षणम् । यथाश्वमेधावभृथमेवं तन्मनुरब्रवीत् ॥१७॥ अहं तु परमेत्युक्तस्त्रिरह्नो ह्य पपन्नयः । (?) मुच्यते पातकैः सर्वैर्जप्त्वा त्रिरधमर्षणम् ॥१७६।। यथाश्वमेधः क्रतुराट् सर्वपापप्रणोदनः । तथाऽघमर्षणं सूक्त सर्वपापप्रणोदनम् ॥१७७|| सिंधुद्वीपो भवेदार्ष गायत्री च्छन्द एव हि। आपस्तु दैवतं प्रोक्त विनियोगस्तु मार्जने ॥१७८।।