________________
२२६८ बृहद्योगियाज्ञवल्क्यस्मृतिः [सप्तमो
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दमः शमार्जवं दानं सर्वेषां धर्मसाधनम् । गृहीत्वा यमधनुर्वै नियमज्याततं दृढम् । संदधीत दमशरं स्वर्गलक्ष्ये प्रयत्नतः ॥१६॥ यस्येदमायुधं नास्ति स्वर्गसाधनमुत्तमम् । अपि जन्मसहस्रण न साधयति तत् परम् ॥१६०॥ एष वोऽभिहितः कृत्स्नः स्नानस्य परमां विधिः । गुणाश्च तस्याऽऽचरतो दोषाश्चैवानिपेवणात् ॥१६१॥ असामर्थ्याच्छरीरस्य कालशक्तिव्यपेक्षया । मन्त्रस्नानादिकान् सप्त केचिदिच्छन्ति सूरयः ॥१६२॥ मान्नं भौमं तथाऽऽग्न यं वायव्यं दिव्यमेव च । वारुणं मानसं चैव सप्त स्नानान्यनुक्रमात् ॥१६३॥ आपोहिष्ठति वै मन्त्रं मृदालम्भश्च पार्थिवम् । आग्नयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् ॥१६४॥ यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते । वारुणं चावगाहस्तु मानसं विष्णुचिन्तनम् ॥१६॥ शस्तं स्नानं यथोद्दिष्ट मन्त्रस्नानक्रमेण तु । कालदोषादसामर्थ्यात् सर्व तुल्यफलं स्मृतम् ॥१६६॥ मानसं प्रणवस्नानं केचिदिच्छन्ति सूरयः । आत्मतीर्थप्रशंसायां व्यासेन पठितं यतः ।।१६७॥ योऽसौ विस्तरशः प्रोक्तः स्नानस्य विधिरुत्तमः । अशक्तस्तु न कुर्याद्वः तत्रायं विधिरुच्यते ॥१६८।।