________________
ऽध्यायः] जपविधिवर्णनम्
२२६७ यदि वाग्यमलोपः स्याजपादिषु कथञ्चन । व्याहरेद्वष्ण' मन्त्रं स्मरेद्वा विष्णुमव्ययम् ॥१४८॥ तूष्णीमासीत तु जपंश्चाण्डालपतितादिकान् । दृष्ट वा तीर्थमुपस्पृश्य भाष्य स्नात्वा पुनर्जपन् ॥१४॥ आचम्य प्रयतो भूत्वा जपेदशुचिदर्शने।। सौरान मन्त्रान् यथोत्साहं पावमानीश्च शक्तितः ॥१५॥ रौद्रपित्र्यासुरान् मन्त्रान् राक्षसानाभिचारिकान् । व्याहृत्यालभ्य चात्मानमपः स्पृष्ट वान्यदाचरेत् ॥१५॥ एतान् व्याहृत्य रौद्रादीनस्पृष्ट वाऽरौं जलं द्विजः। ऊवं यत् कुरुते कर्म तद्भवत्ययथायथम् ॥१५२।। स्पर्शनाद्भिषिताभिरुद्ध ताभिश्च मानवः । स्नानमाचरनुष्णाभिर्न विशुद्धयति कर्हिचित् ॥१५३।। अग्राह्यास्त्वनिमा ह्यापो नद्याः प्रथमवेगगाः । प्रक्षोभिताश्च केनापि याश्च तीर्था द्विनिः मृताः॥१५४॥ अगम्यागमनात् स्तेयात् पापेभ्यश्च प्रतिग्रहात् । रहस्याचरितात् पापात्मुच्यते स्नानमाचरन् ॥१५॥ प्रकतुमसमर्थश्चेत् जुहोतियजतिक्रियाः। स्नानध्यानजपोंमैरात्मानं शोधयेद्बुधः ॥१५६।। यदैव कुरुते स्नानं विशुद्धनान्तरात्मना । तेनैव सर्वमाप्नोति विधिं यज्ञक्रिया लम् ॥१५७।। ब्रह्मक्षत्रविशां चैव मन्त्रवत् स्नानमिष्यते । तूष्णीमेव तु शूद्रस्य सनमस्कारकं स्मृतम् ॥१८॥