________________
२२६६ . बृहद्योगियाज्ञवल्क्यस्मृतिः [सप्तमो
अभावादक्षमालायाः कुशग्रन्थाऽथ पाणिना । जप एव हि कर्त्तव्य एकाग्रमनसा तथा ॥१३॥ ध्यायेच्च मनसा मन्त्रं जिह्वौष्ठौ न विचालयेत् । न कम्पयेच्छिरोग्रीवं दन्तान्नैव प्रकाशयेत् ॥१४०॥ यक्षराक्षसभूतानि सिद्धविद्याधरोरगाः। हरन्ति प्रसभं यस्मात्तस्माद्गुप्त समाचरेत् ॥१४१।। जलान्ते वाग्न्यगारे वा जपेद्देवालये तथा । पुण्यतीर्थे गवां गोष्ठे सिद्धक्षेत्रेऽथवा गृहे ॥१४२॥ गृहे ह्य कगुणं प्रोक्तं नद्यां तु द्विगुणं स्मृतम् । गवां गोष्ठे दशगुणमग्न्यगारे दशाधिकम् । सिद्धक्षेत्रेषु तीर्थेषु देवतायाश्च संनिधौ । सहस्र शतकोटीनामनन्तं विष्णुसंनिधौ ॥१४३॥ शाकयावकभक्ष्याणि पयोमूलफलानि च। विसशृङ्गाटशालूक (कं) हविष्यान्नानि यानि तु । दधि सर्पिस्तथा ह्यापः प्रशस्ता ह्युत्तरोत्तरम् ॥१४४॥ चरवो ह्युपवासश्च भैक्ष्यं नक्तमयाचितम् । एतान्येव व्रतान्याहुः शस्तानि जपकर्मणि ॥१४॥ जपकाले न भाषेत व्रतहोमादिकेषु च । एतेष्वेवावशक्तं तु यद्यागच्छेद्विजोत्तमः । अभिवाद्य ततो विप्रं योगक्षेमं च कीर्तयेत् ॥१४६॥ स्त्रीशूद्रपतितांश्चैव पाषण्डिनं रजस्वलाम्।। जपकाले न भाषेत व्रतहोमादिकेषु च ॥१४७॥