________________
तपणविधिवणनम्
देवा गातुविद इति कृत्वा जप्यनिवेदनम् । प्रक्षाल्य तीर्थदेशं तु गत्वा स्वं कम आचरेत् ॥ १०७॥ उपस्थानादिर्यस्तासां मन्त्रवान् कीर्ततो विधिः । निवेदनान्तं तत् स्नानमित्याहुर्ब्रह्मवादिनः || १०८|| परकीयनिपानेषु यदि स्नायात् कदाचन । सप्त पिण्डान् समुद्धत्य ततः स्नानं समाचरेत् ॥ १०६॥ अनुद्धत्य तु यः स्नायात् परकीयजलाशये । वृथा भवति तत् स्नानं कर्तुः पापेन लिप्यते ॥ ११०॥ स्रवन्त्यादिष्वथाचम्य सोपानत्को ह्यसंस्पृशन् । आगतः सोदपात्रस्तु यत्नेन शुचिरेव सः ॥ १११॥ तेनोदकेन द्रव्याणि प्रोक्ष्याचम्य पुनर्गृ है । ततः कर्माणि कुर्वीत नित्यं वै यानि कानि चित् ॥ ११२ ॥ पात्रादिरहितं तोयमुद्ध तं सव्यपाणिना । न तेनाभ्युक्षणं कुर्याद्वस्त्र निष्पीडनेन च ॥ ११३॥ सौवर्णं राजतं ताम्रं मुख्यं पात्रं प्रकीर्तितम् । तदलाभे मृदं पात्रं स्रवते यन्न धारितम् ॥ ११४ ॥ स्नात्वैवं सर्वभूतानि तर्पयेद्योन्वहं द्विजः । स गच्छति परं स्थानं तेजोमूर्तिरनामयम् ॥ ११५ ॥ स्नानमूला: क्रियाः सर्वाः श्रुतिस्मृत्युदिता नृणाम् । तस्मात् स्नानं निषेवेत श्रीपुष्प्रचारोग्यवर्धनम् ॥ ११६॥ प्रातरुत्थाय यो विप्रः संध्यास्नायी सदा भवेत् । सप्तजन्मकृतं पापं त्रिभिर्वर्षैर्व्यपोहति ॥११७॥
।
ऽध्यायः ]
२२६३