________________
२२६२ बृहद्योगियाज्ञवल्क्यस्मृतिः [सप्तमो
दद्यात् पुरुषसूक्त न यः पुष्पाण्यप एव वा। अर्चितं स्याजगदिदं तेन सर्व चराचरम् ॥१७॥ विष्णुब्रह्मा च रुद्रश्च विष्णुर्देवो दिवाकरः। तस्मात् पूज्यतमं नान्यमहं मन्ये जनार्दनात् ॥६८॥ विष्णुं वा भास्करं वापि सर्वदैव समर्चयेत् । सावित्र्यै च हविर्दद्यात् यथाशक्ति समाहितः ॥६॥ ततोवलोकयेदकं हँसः शुचिषदित्युचा । स याति ब्रह्मसदनं स्नात्वेक्षेद्योनया रविम् ॥१००। अदृश्रमस्येति मन्त्रैरुपस्थाय दिवाकरम् । संवर्चसेति पाणिभ्यां तोयेनाविमृजेन्मुखम् ॥१०॥ स्वयंभूरित्युपस्थाय सूर्यस्येति प्रदक्षिणा। .. समावृत्य नमस्कुर्यादिशो दिग्देवता अपि । ब्रह्मणेग्नये पृथिव्यै औषधिभ्यस्तथैव च ॥१०॥ वाचि (चे च) वाचस्पतये विष्णवे महते तथा । एताभ्यो देवताभ्यश्च नमस्कारादि वै जलम् ॥१०॥ दत्त्वा नमस्येत् क्रमशस्त्वन्ते वै सर्वकर्मणाम् । नमोऽद्भयो नमोऽपांपतये वरुणाय नमो नमः ॥१०४।। इत्युक्त्वापो नमस्कृत्यावनौ देवांश्च नामतः । इदमापः प्रवहता(त) धाम्नो धाम्नस्तथैव च ॥१०॥ एवं संपूज्य देवेशं क्षणं ध्यात्वा निरञ्जनम् । विमोचनाथ तीर्थस्य आप्यायस्वेति वै जपेत् ॥१०६।।