SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] तर्पणविधिवर्णनम् २२८६ वनस्पतीनोषधींश्च भूतग्रामं चतुर्विधम् । मरीचिरत्र्यङ्गगिरसौ पुलस्त्यं पुलहं क्रतुम् ।।६४।। प्रचेतसं वशिष्ठं च भृगु नारदमेव च । सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥६॥ कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा । एते ब्रह्मसुताः सप्त मनुष्याः परिकीर्तिताः ॥६६॥ ब्रह्माद्यानुपवीती तु देवतीर्थेन तर्पयेत् । निवीती कायतीर्थेन मनुष्यान् सनकादिकान् ॥६७|| अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । तृप्यतामिति सेक्तव्यं नाम्ना तु प्रणवादिना ॥६८॥ आवाह्य पूर्ववन्मन्त्रैरास्तीर्य च कुशान् शुचीन् । प्रागनषु सुरान् सर्वान् दक्षिणायषु पितॄन् ॥६॥ नासनस्तु (आसीनस्तु) स्वधाकारैगोत्रेण तु समाहितः ! दक्षिणे पितृतीर्थेन पितृणां तृप्तिमावहन् ॥७०।। सव्यं जानु ततोऽन्वाच्य पाणिभ्यां दक्षिणामुखः । तल्लिङ्ग स्तर्पयेन्मन्त्रैः सर्वान् पितृगणांस्तथा ॥७॥ मातामहांश्च सततं श्रद्धया तर्पयेद्बुधः । प्राचीनावीत्युदकं च प्रसिञ्चेव तिलान्वितम् ।।७२।। या द्धतं निषिञ्चेत्तु तिलान् संमिश्रयेजले । अतोऽन्यथा तु सव्येन तिला ग्राह्या विचक्षणः ॥७३॥ दक्षिणे पितृतीर्थेन जलं सिञ्चेद्यथाविधि । दक्षिणेनैव गृह्णीयात् पितृतीर्थसमीपतः ॥४॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy