SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] स्नानविधिवर्णनम् २२८५ देवीराप इति द्वाभ्यामापो देवा इति त्र्यूचा। द्रुपदादिव इत्यूचा शन्नोदेवीरपां रसम् ॥२१॥ आपो देवीति नवभिः पावमानीभिरेव च । पुनन्तु मायि (पि) तर इति पावमानीः प्रयोजयेत् ॥२२॥ चित्पतिर्मेति च शनैः पाव्यात्मानं समाहितः । हिरण्यवर्णा इति च पावमान्यस्तथाऽपराः ॥२३॥ तरत्समाः शुद्धवत्यः पवित्राणि च शक्तितः। वारुणीश्च ऋचः सूक्त शक्तितश्च प्रयोजयेत् ॥२४॥ जलमध्यस्थितो विप्रः शुद्धभावो हरिं स्मरेत् । ओंकारेण व्याहृतिभिर्गायच्या च समाहितः ।।२।। आदावन्ते च कुर्वीत अभिषेके यथाक्रमम् । अपां मध्यं स्थितस्यैवं मार्जनं तु विधीयते ॥२६॥ अन्तर्जले जपेन्मग्नस्त्रिःकृत्वस्त्वघमर्षणम् । द्रुपदां वा त्रिरभ्यस्येदायं गौरिति वा जपेत्॥२७॥ हंसः शुचिषदिति च त्रिरावत जपेदथ ।। अन्यानि चैव सूक्तानि स्मार्तदृष्टान्यनुस्मरेत् ॥२८॥ सव्याहृति सप्रणवां गायत्री त्रिर्जपेदथ । आवर्तयेद्वा प्रणवं स्मरेद्वा विष्णुमव्ययम् ॥२६॥ विष्णोरायतनं ह्यापः स एवाप्य(प्यो) निरुच्यते । तस्यैव सूनवस्त्वेतास्तस्मात्तं ह्यप्सु संस्मरेत् ॥३०॥ नरादापः प्रसूता वैतेन नारा इति स्मृताः । ता एवास्यायनं ह्यापस्तस्मानारायणः स्मृतः ॥३१॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy