________________
२२८४ बृहद्योगियाज्ञवल्क्यस्मृतिः सप्तमो
एकया च शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि। कटिबस्त्यूरुजङ्घ च चरणौ च त्रिभित्रिभिः ।।१०।। प्रक्षाल्य हस्तौ चाचम्य नमस्कृत्य जलं ततः। यत्किंचिदिति मन्त्रेण नमस्येत् प्रयताञ्जलिः ॥११॥ यत्र स्थाने च यत्तीर्थ नदी पुण्यतमा च या। तां ध्यायन् मनसाऽऽवाह्य अन्यत्रेष्टं विचिन्तयेत् ॥१२ गङ्गादिपुण्यतीर्थानि कृत्रिमादिषु संस्मरेत् । उदुत्यमिति प्रविशेजलं तु प्राङ्मुखं शुचिः ।।१३।। येन देवाः पवित्रेति कुर्यादालम्भनं त्रिभिः । महाव्याहृतिभिः पश्चादाचम्य प्रयतोऽपि सन् ॥१४॥ आलभेद्व मृदाङ्गानि इदं विष्णुरिति त्र्यूचा। भास्कराभिमुखो मज्जेदापो अस्मानिति त्र्यूचा ॥१५॥ ततो निघृष्य गात्राणि निमज्योन्मज्य वै शनैः । गोमयेन तु यः स्नायादापादतलमस्तकम् ॥१६॥ स स्नातः सर्वतीर्थेषु पूतः संवत्सरं भवेत् । आचम्य गोमयेनातो मानस्तोक्या समालभेत् ॥१७॥ ततोऽभिषिञ्चेन्मन्त्रैस्तु वारुणैश्च यथाक्रमम् । इमं मे वरुणेत्युग्भ्यां त्वन्न सत्वन्न इत्यपि ॥१८॥ इदमापउदुत्तममित्येतन्मुञ्चन्त्ववभृथेति च । अभिषिञ्च्य तथाऽऽत्मानं निमज्याचम्य वै पुनः ॥६॥ दभैश्च पावयेन्मन्त्रैरब्लिङ्गः पावनैः शुभैः । आपोहिष्ठेति तिसृभिरिदमापी हविष्मतीः ।।२०।।