SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः स्नानविधिवर्णनम् स्नानमब्दैवतैर्मन्त्रैर्यत्त्वयोक्तं पुराऽनघ । तदाचक्ष्व विशेषेण स्नानस्य तु विधि प्रभो ॥१॥ तांस्तु प्रोवाच प्रीतात्मा याज्ञवल्क्यो महामुनिः। श्रृणुध्वं वक्ष्यते स्रानं सर्वपापहरं शुभम् ॥२॥ मृद्गोमयतिलान् दर्भान् पुष्पाणि सुरभीणि च । आहरेत् स्नानकाले तु स्नानार्थी प्रयतः शुचिः॥३॥ गत्वोदकान्तं विधिवत् स्थापयेत् तत् पृथक् क्षितौ । त्रिधा कृत्वा मृदं तां तु गोमयं च विचक्षणः॥४॥ उत्तमाधममध्यानामङ्गानां क्षालनं च तैः । भागैः पृथक् पृथक् कुर्यात् क्षालने मृदसंकरः॥५॥ प्रभूते विद्यमाने तु उदके सुमनोहरे। नाल्पोदके द्विजः स्नायान्नदींश्चो(चो)त्सृज्य कृत्रिमे ॥६॥ मृद्भिरद्भिश्च चरणौ प्रक्षाल्याचम्य वै शुचिः। उरुं हीति ऋचा तोयमुपस्थाय प्रदक्षिणम् ॥७॥ आवर्तयेत्तदुदकं ये ते शतमिति ह्यचा। सुमित्रिया इत्यञ्जलिमुद्धरेद्दवतं स्मरन् ॥८॥ दुर्मित्रिया इति द्वि(व)ष्यं ध्यायंश्चापः प्रसेचयेत् । मृद्भिरद्भिश्च गात्राणि क्रमशस्त्ववनेजयेत् ॥६॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy