________________
२२८२ वृहद्योगियाज्ञवल्क्यस्मृतिः [ षष्ठो
उभे संध्ये तु स्नातव्यं ब्राह्मणैम्तु गृहावितैः। तिसृष्वपि च संध्यासु स्नातव्यं ब्रह्मवादिना ।।२६।। कालदोषादसामर्थ्यान्नशक्नोति यदा यसौ। तदाऽऽज्ञातो ऋषिभ्यस्तु मन्त्रैदृष्टस्तु मार्जनम् ॥२७॥ शन्न आपस्तु द्रुपदा आपोहिष्ठाऽघमर्षणः । एतैश्चतुभिर्मन्त्रैस्तु मन्त्रस्नानमुदाहृतम् ॥२८॥ स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः।। अघमर्षणसूक्तन अश्वमेधावभृत्समम् ॥६॥ अप्रायत्ये समुत्पन्ने स्नानमेव तु कारयेत् । पूर्वोद्दिष्टैस्तथा मन्त्रैरन्यथा मार्जनं स्मृतम् ॥३०॥ एतच्छ त्वा तु वचनं याज्ञवल्क्यस्य धीमतः । ऋषयः संयतात्मानः पृच्छन्ति खाननिर्णयम् ॥३१॥ इति श्रीबृहद्योगियाज्ञवल्क्ये संध्यानिर्णयो (नाम)
षष्ठोऽध्यायः ॥६॥