________________
२२८० बृहद्योगियाज्ञवल्क्यस्मृतिः [षष्ठो
सर्वावस्थोऽपि यो विप्रः संध्योपासनतत्परः । ब्राह्मण्याच्च न हीयेत सोऽन्यजन्मगतोऽपि सन् ॥४॥ ओंकारो व्याहृतीः सप्त गायत्री सशिरास्तथा । आपोहिष्ठा ऋचस्तिस्त्रः सूक्तं चैवाघमर्षणम् ॥५॥ आदित्यरक्षणार्थ तु सायंप्रातर्दिने दिने। सृष्टं स्वयंभुवा पूर्व ब्राह्मणानां मुखे स्थितम् ॥६॥ सातत्यं कर्म विप्राणामहोरात्राद्यसं: (घनो) दनम् । पापं तु जायते तस्मादनार्तस्तन्न चोत्सृजेत् ॥७॥ अनार्तश्चोत्सृजेद्यस्तु स विप्रः शूद्रसंमितः। प्रायश्चित्तीभवेद्विप्रो लोके भवति निन्दितः ॥८॥ यावन्तोस्यां पृथिव्यां तु विकर्मस्था द्विजातयः । तेषां तु पावनार्थाय संध्या सृष्टा स्वयंभुवा ॥६॥ या संध्या सा तु गायत्री त्रिधा भूत्वा प्रतिष्ठिता। संध्या ह्यु पासिता येन तेन विष्णुरुपासितः ॥१०॥ ह्रासवृद्धी तु सततं दिवसानां यथाक्रमम् । संध्या मुहूर्तमात्रं तु ह्रासे वृद्धौ तु सा समा ॥११॥ त्रिंशत्कोट्यस्तु विख्याता मन्देहा नाम राक्षसाः। प्रद्रवन्ति सहस्रांशुमुदयन्तं दिने दिने ॥१२॥ अहन्यहनि ते सर्वे सूर्यमिच्छन्ति खादितुम् । अथ सूर्यस्य तेषां च युद्धमासीत् -- सुदारुणम् ॥१३॥ ततो देवगणाः सर्वे. भूषयश्च तपोधनाः । संध्येति (संध्यांतु) समुपासीनाः प्रक्षिपन्ति महजलम् ॥१४॥