________________
अथ पञ्चमोऽध्यायः
ओंकार गायत्रीन्यासवर्णनम न्यासं तु संप्रवक्ष्यामि ओंकारादि यथायथम् । येन विन्यस्तमात्रेण ब्रह्मीभवति ब्राह्मणः ॥११॥ अकारं विन्यसेन्नाभ्यां सत्त्वरूपं निरञ्जनम् । उकारं हृदये तद्वद्राजसं तद्गुणं स्मृतम् ॥२॥ मकारं मूर्ति विन्यस्य तमोमानं तृतीयकम् । ब्रह्मरूपं तदात्मानं ध्यायेद्विगतकल्मषम् ॥३॥ कुर्याद्वथाहृतिभिासं वक्ष्यमाणक्रमेण तु । पूर्वमेव तु याः प्रोक्ता भूराद्यास्ते समासतः ॥४॥ भूर्लोकं पादयोर्मध्ये भुवर्लोकं तु जानुनोः।। स्वलॊकं कटिदेशे तु नाभिदेशे महस्तथा ॥५॥ जनलोकं कण्ठदेशे मुखबिम्बे तपस्तथा । भ्रुवोर्ललाटसंधौ तु सत्यलोकं प्रतिष्ठितम् । हिरण्मये परे कोशे ध्येयः परमनिष्कलः ॥६॥ तत्छुभ्र ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः । गायत्री विन्यसेत् पश्चाच्छरीरे चात्मनो बुधः ॥७॥ चतुर्विशतिस्थानेषु पादो (द) मूर्धान्तमस्तकम् । पादाङ्गुष्ठे तथा गुल्फे जङ्घयोर्जानुनोस्तथा ।।