________________
[चतुर्थो
२२७६ बृहद्योगियाज्ञवल्क्यस्मृतिः
ब्रह्महा हेमहारी च यस्तु विप्रः सुरां पिबेन् । गायत्र्याः शतसाहस्र जपे भवति वै शुचिः ।।६।। अक्षराणि च दैवत्यं संप्रवक्ष्याम्यत.परम् । आग्नेयं प्रथमं ज्ञेयं वायव्यं च द्वितीयकम् ॥६३।। तृतीयं सूर्यदैवत्यं चतुर्थं वैद्युतं स्मृतम् । पञ्चमं यमदैवत्यं वारुणं षष्ठमुच्यते ॥६॥ बार्हस्पत्यं सप्तमं च पार्जन्यमष्टमं विदुः। . ऐन्द्र तु नवमं ज्ञेयं गांधवं दशमं स्मृतम् ॥६।। पौष्णमेकादशं ज्ञेयं द्वादशं मैत्रवारुणम् । त्वाष्ट्र त्रयोदशं ज्ञेयं वासवं च चतुर्दशम् ॥६६।। मारुतं पञ्चदशकं सौम्यं षोडशकं स्मतम् । सप्तदशं त्वाङ्गिरसं वैश्वदेवमतःपरम् ॥६७।। आश्विनं चैकोनविंशं प्राजापत्यं तु विंशकम् । सर्वदेवमयं ज्ञेयमेकविंशकमक्षरम् ॥६॥ रौद्र द्वाविंशकं प्रोक्त त्रयोविंशं तु ब्राह्मणम् । वैष्णवं तु चतुर्विंशमेता अक्षरदेवताः ॥६६॥ जप्यकालेषु संचिन्त्य विष्णुसायुज्यता व्रजेत् । एतस्यां ज्ञातमात्रायां वाङ्मयं विदितं भवेत् ॥७॥ उतासितं भवेत् सर्व विश्वं भुवनसप्तकम् । अज्ञात्वा चैव गायत्रीं ब्राह्मण्यात् परिहीयते ॥१॥ अपवादेन संयुक्तो भवेच्छ तिनिदर्शनात् । येषां द्विजानां सावित्री नानूच्येत् यथाविधि ॥७२॥