SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ [ चतुर्थों बृहद्योगियाज्ञवल्क्यस्मृतिः शिरसा सहितां देवी प्राणयामे प्रयोजयेत् । प्रणवव्याहृतिभिः साधं खाहान्तां होमकर्मणि ॥४०॥ प्रतिलोभा प्रयोक्तव्या फटकारान्ताऽऽभिचारिके । एवं यस्तु विजानाति गायत्री ब्राह्मणस्तु सः ॥४१॥ अन्यथा शूद्रधर्मा स्याद्व दानामपि पारगः । तस्मात् सर्वप्रयत्नेन ज्ञातव्या ब्राह्मणेन सा ॥४॥ व्याहृत्योंकारसहिता सशिराश्च यथार्थतः । सशिराश्व गायत्री येविगैरवधारिता ॥४॥ ते जन्मवन्धनिर्मुक्ताः परं ब्रह्म विशन्ति वै । षोडशाक्षरकं ब्रह्म गायत्री सशिरास्तथा ॥४४॥ सकृदावर्तयेद्यस्तु सर्वपापैः प्रमुच्यते । सोंकारं चतुरावा विज्ञेया सा शताक्षरा ।।४।। शताक्षरा(रा) समावर्त्य चतुर्वेदफलं लभेत् । ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ॥४६।। त्रिपदा चैव गायत्री विज्ञेयं ब्रह्मणो मुखम् । योधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः ।।४७|| स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् । एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् ॥४८॥ सन्ध्ययोरुभयोविप्रो वेदपुण्येन युज्यते । सहस्रकृत्वस्त्वभ्यस्य बहिरेतत् त्रिकं द्विजः ॥४६॥ महतोऽप्येनसो मासात् त्वचेवाहिर्विमुच्यते । सप्तावृत्या पुनेहें दशभिः प्राप्यते दिवम् ॥५०॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy