SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ २२७२ बृहद्योगियाज्ञवल्क्यस्मृतिः [चतुर्थो संवत्सरतनुाषा अरणीति निगद्यते । चतुर्विशत्यात्मिकैषा तत्वन (व) त्यपि सा स्मृता ॥१८॥ प्रणवः सर्ववेदानां गायत्री छन्दसामिह । अक्षराणि च यान्यस्याः स्मृतान्यङ्गानि तानि तु ॥१६॥ चतुर्विंशति तत्वानि ओंकारः पञ्चविंशकः । चतुर्विंशाक्षरा देवी त्रिपदाष्टाक्षरं पदम् ॥२०॥ गेयकाले सामगानां यकारोस्याः प्रजायते । चतुर्विंशः स विशेयो अलक्ष्यः शान्तिमस्तुवः (चान्तिमस्तु सः) ॥२१॥ केचिदिच्छन्ति निष्क्रान्तं यकारान्ते प्रतिष्ठितम् । अन्तिमो यो भवेद्वर्णो व्यञ्जनं चार्धमात्रिकम् ॥२२।। तत्तालुनि निविष्टं तु तुर्याख्यं सोमरूपकम् । चतुर्विंशतिसंख्येयमक्षरं ब्रह्म निष्कलम् ॥२३।। तेनैवारभ्यते देवी तेनैवेषा समाप्यते । सार्धमात्रिकरूपेण ओंकारान्ते व्यवस्थितम् ॥२४॥ प्रधानः स तु विज्ञेयस्तत्परः पुरुषः स्मृतः ॥२५॥ ओंकारः पूर्वमुच्चार्यो भूर्भुवः स्वस्ततः परम् । गायत्री प्रणवश्चान्ते जपे ह्य वमुदाहृतः ॥२६॥ श्वेतवर्णा समुद्दिष्टा कौशेयवसना तथा । श्वेतै विलेपनैः पुष्पैरलकारैश्च भूपिता ॥२७॥ आदित्यमण्डलान्तस्था ब्रह्मलोकगताथवा ।। अक्षसूत्रधरा देवी पद्मासनगता शुभा ॥२८॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy