SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ अध्यायः] गायत्रीनिर्णयवर्णनम् २२७१ पुराणधर्मशास्त्राणि गायत्र्याः पावनानि तु । कीर्तितानि त्वनेकानि गायत्र्याः पावनानि च ॥७॥ षोडशाक्षरकं ब्रह्म गायत्र्यास्तच्छिरः स्मृतम् । ओमापो ज्योतिरित्येष मन्त्रो यः परिकीर्त्यते ॥८॥ तस्य प्रजापतिश्चर्यिजुश्छन्दो विवर्जि (णि) तम् । ब्रह्माग्निवायुसूर्याश्च दैवत्यं समुदाहृतम् ॥६॥ प्राणस्यायमने चैव विनियोग उदाहृतः । गायत्र्याः शिरसा सार्धमेवं अतिनिदर्शनम् ॥१॥ तपसा सुसमुद्ध,त्य आदिसर्गे स्वयंभुवः।। ओंकारपूर्वा गायत्री निर्जगाम ततो मुखात् ॥११॥ अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयान्निरदुहद्धर्भुवः स्वरितीति च ॥१२॥ त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । तदित्यचोस्याः सावित्र्याः परमेष्ठीप्रजापतिः ॥१३॥ यथाग्निः देवतानामृतूनां कुसुमाकरः । ब्राह्मणो द्विपदानां च गावश्चैव चतुष्पदं (दाम)॥१४॥ तेजस्वीनां सहस्रांशुरिन्द्रियाणां यथा मनः। मेरुः शिखरिणां श्रेष्ठो गायत्री छन्दसां तथा ॥१॥ यथा मधु च पुष्पेभ्यो घृतान्मण्डं रसात् पयः। एवं हि सर्ववेदानां गायत्री सारमुच्यते ॥१६॥ गायत्री प्रकृति या ओंकारः पुरुषः स्मृतः।। ताभ्यामुभाभ्यां संयोगात जगत सर्व प्रवर्तते ॥१७॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy