________________
२२७०
बृहद्योगियाज्ञवल्क्यस्मृतिः [चतुर्थोएष संक्षेपतश्चोक्तः सप्तव्याहृतिनिर्णयः । यं ज्ञात्वा मुच्यते विद्वान् भवग्राहाकुलार्णवात् ॥३१॥ निर्णयो व्याहृतीनां तु श्लोका द्वित्रिंशकस्तथा ॥३२॥ इति (श्री) बृहद्योगियाज्ञवल्क्ये व्याहृतिनिर्णयो नाम
तृतीयोऽध्यायः ।
अथ चतुर्थोऽध्यायः
गायत्रीनिर्णयवर्णनम् अतः परं प्रवक्ष्यामि गायत्र्या निर्णयं शुभम् । यं ज्ञात्वा याति वै विप्रः सायुज्य ब्रह्मणा सह ॥१॥ आर्ष छन्दश्च देवत्यं विनियोगश्च ब्राह्मणम् । शिरश्चाक्षरदैवत्यमावाहनविसर्जनम् ॥२॥ ध्यानं जपप्रयोगश्च येषु कर्मसु यादृशम् । ज्ञातव्यं ब्राह्मणैर्यत्वाद्ब्राह्मण्यं येन वै भवेत् ॥३।। सविता देवता ह्यत्या मुखमग्निस्तदिलाचः। विश्वामित्रऋषिश्छन्दो गायत्री तु विधीयते ॥४॥ विश्वस्य जगतो मित्रं विश्वामित्रः प्रजापतिः । विनियोग उपनये प्राणायाम तथैव च ॥५॥ गायत्री वा इदं सर्वं ब्रह्माण्डं ब्राह्मणानि हु। वेदोपनिषच्छाखासु ब्राह्मणानि विधानतः ॥६॥