________________
ऽध्यायः] व्याहृतिनिर्णयवर्णनम् २२६६
अधिकारनिवृत्ताश्च तिष्ठन्त्यस्मिस्ततस्तपः । । सत्यं तु सप्तमो लोको ब्रह्मणः सदनं हि तत् ।।२१।। सर्वेषां चैव देवानां मूनि संतिष्ठते सदा । ज्ञानकर्मस्वनुष्ठानात्तथा सत्यस्य भाषणात् ।।२२।। प्राप्यते चोपभोगाथं प्राप्य न च्यवते पुनः । सत्यं तु सप्तमो लोकस्तस्मादूध्वं न विद्यते ॥२३॥ आसप्तमात्तु पातालादूर्ध्वमेतदुदाहृतम् । अधस्ताद्राजतं ह्यण्डमूर्ध्वमधं हिरण्मयम् ॥२४॥ प्रधानादेव संभूतं ब्रह्मनीडं हिरण्मयम । भूराद्यौःसप्तभिर्याप्त सत्यान्तैः पुरुषसंमितैः ॥२५॥ अझैद्ध छिद्रितं ह्यण्डं सप्तप्रकृतिलौकिकम् । अनन्ताकाशमध्यस्थं जीवभास्करभासितम् ॥२६॥ अजस्य नाभावुद्भूतं यस्मिन् विश्वं प्रतिष्ठितम् । महदादि विशेषान्तमव्यक्त गच्छते लयम् ॥२७॥ अपुनमरणायैव ब्रह्मणः सदने स्थिताः। अधिकारं विना चैव ब्रह्मणः सदृशाश्च ते ॥२८॥ अव्यक्त वै दिनस्यान्ते मुच्यन्ते ब्रह्मणा सह । विशन्ति परमं धाम पुरुषं भास्करप्रभम ॥२६॥ व्याहतीयाहरंश्चैव प्राणयदि विमुच्यते । विलयं याति च व्यक्तमव्यक्त पुरुषे क्षणात् ॥३०॥