________________
२२६८ बृहद्योगियाज्ञवल्क्यस्मृतिः [तृतीयो.
एतास्तु व्याहृतीः सप्त यः स्मरेत् प्राणसंयमे । उपासितं भवेत्तस्य विश्वं भुवनसप्तकम् ॥१०॥ सर्वेषु चैव लोकेषु कामचारश्च जायते । एषा लोकवती ज्ञेया तनुराधा प्रजापतेः ॥११।। सप्तान्ता देवदेवस्य विष्णोरमिततेजसः । व्याहृतीनां च सर्वासामृषिश्चैव प्रजापतिः ॥१२॥ सप्त च्छन्दांसि यान्यासां तानि सम्यक् प्रकीर्तयेत् । गायत्र्युष्णिगनुष्टुप् च वृहती पङ्क्तिरेव च ॥१३॥ त्रिष्टुप् च जगती चैव छन्दांस्येतानि सप्त वै। अग्निर्वायुस्तथादित्यो बृहस्पत्याप एव च ॥१४॥ इन्द्रश्च विश्वेदेवाश्च देवताः समुदाहृताः । अनादिष्टेषु सर्वेषु प्रायश्चित्तेषु सर्वशः ॥१५॥ प्राणायामप्रयोगे च विनियोग उदाहृतः । भवन्ति भूयो भूतानि उपभोगक्षये पुनः ॥१६।। कल्पान्ते ह्य पभोगाय भुवस्तेन प्रकीर्तितम् । शीतोष्णवृष्टितेजांसि जायन्त्येतानि बै ततः ॥१७॥ आलयः सुकृतीनां च स्वर्लोकः समुदाहृतः । अधरोत्तरेभ्यो लोकेभ्यो महांश्च परिमाणतः ॥१८॥ हृदयं सर्वलोकानां महस्तेन निगद्यते । कल्पदाहे प्रलीनास्तु प्राणिनस्तु पुनः पुनः ॥१६॥ जायन्ते तु पुनः सर्गे जनस्तेन उदाहृतः। सनकाद्यास्तपः सिद्धा ये चान्ये ब्रह्मणः सुताः ।।२०॥