SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयोऽध्यायः व्याहृतिनिर्णयवर्णनम् 1 अतः परं प्रवक्ष्यामि व्याहृतीनां च निर्णयम् । सप्त व्याहृतयः प्रोक्ताः पुराकल्पे स्वयंभुवा ॥ १ ॥ तान्येव सप्त च्छन्दांसि लोकाः सप्त प्रकीर्तिताः । त्रिधा चतुर्धा विज्ञेया (:) पंचधा सप्तधा पुनः ॥ २ ॥ भूर्भुवः स्वरिति ज्ञेया अव्यस्तास्ताः प्रकीर्तिताः । पञ्च व्याहृतयः प्रोक्ताः सामगानां च सामसु ॥ ३ ॥ पुरुषं च तथा सत्यं भूर्भुवः स्वस्तथैव च । विद्याप्रकरणापाये यजमानस्तु वै सदा ॥ ४ ॥ सप्त व्याहृतयः प्रोक्ताः प्राणायामेषु नित्यशः । भूर्भुवः स्वर्महर्जनस्तपः सत्यं तथैव च ॥ ५ ॥ भूराद्याश्चैव सत्यान्ता महाव्याहृतयस्तु वै । लोकायतास्तु सप्तैते उपर्युपरि संस्थिताः ॥ ६ ॥ चतुर्दशविधं सगं दृष्ट्वेदं व्याहृतं स्वयम् | सप्त लोका भविष्यन्ति तस्मान्द्याहृतयः स्मृतः (ताः) ॥७ अव्याहृतमिदं ह्यासीत् सदेवासुरमानुषम् । संसत्यं व्याहृतं पूर्वं प्रजापतिरिति श्रुतिः ॥ ८ ॥ भूर्भुवःस्वस्तथा पूर्वं स्वयमेव स्वयंभुवा । व्याहृता ज्ञानदेहेन तेन व्याहृतयः स्मृताः ॥ ५ ॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy