________________
ऽध्यायः] ओंकारनिर्णयवर्णनम् २२६५
प्रणवो विमलः शुद्धो निःशब्दो व्योमसंज्ञकः । तस्मादुत्पद्यते प्राणः पुनस्तत्रैव लीयते ॥१४०।। प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् । दुःखे भयाभिघातार्थे सर्वथा प्रणवं स्मरेत् ॥१४॥ प्रणवो ह्यपरं ब्रह्मप्रणवश्च परः स्मृतः। प्रणवो ह्यादि सर्गस्य अन्तो मध्यस्तथैव च ॥१४२।। एवं हि प्रणवं ज्ञात्वा विशन्ति ब्रह्म निष्कलम् । अपूर्वोऽनन्तारोऽबाह्योऽनपरः प्रणवोऽव्ययः १४३॥ प्रणवो हीश्वरो देवो हृदि सर्वस्य धिष्ठितः । सर्वव्यापिनमोंकारं मत्त्वा धीरो न सीदति ॥१४४॥ अमात्रं च त्रिमात्रं च अद्वतं ब्रह्म तत् परम्।। स्थूलं चाप्यतिसूक्ष्मं च सर्वतः किमपि स्थितम् ॥१४॥ ओंकारं विन्दते यस्तु स भवेद्वदविद्विजः। यथा पत्रं फलं पुष्पं शकुनैकेन धार्यते ॥१४६॥ तथा जगदिदं सर्वमोंकारेणैव धार्यते। जप्येन दहते पापं प्राणायामैस्तथा मलम् ॥१४७॥ ध्यानेन जन्म निर्घातं धारणाभिश्च मुच्यते। ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ॥१४॥ स्त्रवत्यनोकृतं पूर्व परस्ताव विशीयते। . प्रोक्षणे पोषणे चैव प्रतिष्ठाने प्रतिग्रहे ॥१४६।। आश्रावणे वषट्कारे प्रत्याश्रावे जपेऽपि च । सामसु ब्रह्ममुख्येषु ऋग्यजुस्तोत्रशस्त्रयोः ॥१५०।।