________________
२२६४ बृहद्योगियाज्ञवल्क्यस्मृतिः [द्वितीयो
वशिष्ठस्य मतेनैव मात्राचात्र चतम्रिका (१) त्रिमात्रो मनुना चोक्तस्तथान्यैऋषिसत्तमैः ॥१२६।। पाराशरैश्चतुर्मात्रस्तथा स्वध्यात्मचिन्तकैः । हस्वं दीर्घ प्लुतं शान्तं चतुर्धा संप्रकीर्तितम् ॥१३०।। भवेत् कर्मवशादेवमन्यथा तु त्रिरक्षरम् भगवान् याज्ञवल्क्यस्तु अमात्रं चेच्हते सदा ॥१३१॥ यः शब्दमय ओंकार उच्चार्यः स्थूल एप सः । अमात्रश्चाप्यनुच्चार्य परोंकारः स उच्यते ॥१३२।। तिस्रः सार्धास्तथा मात्राः स गृह्णाति यथाक्रमम् । परं ब्रह्म तमेवाहुश्चात्मानं ब्रह्मचिन्तकाः ॥१३३।। यत् पूर्व तु समुद्दिष्टमोंकाराग्रे व्यवस्थितम् । अक्षरैश्च पदैश्चैव अतीतं पञ्चमं पदम् ॥१३४॥ यं (यत्) प्राप्य विन (नि) वर्तन्ते ओंकारस्य पथि स्थिताः । मनसात्र समाधाय शरीरं लिङ्गमानवम् ॥१३।। संकल्पं व्यवसायं च अभिमानास्यसंज्ञकम् । चेतनाधिष्ठितं सूक्ष्मं तथा सूक्ष्मैः सहैव तु ॥१३६।। ओंकारपद्मनालेन हद उद्ध,त्य योजयेत् ।। परमे व्योम्न्यनन्ताख्ये सर्वसङ्कल्पवर्जिते ॥१३७।। तस्मिंस्तावन्निरोद्धव्यं मनश्चोकारमेव च । यावन्निर्मलतां याति एष योग उदाहृतः ॥१३८।। मनो युद्ध्यात्तथोंकारे ओंकारं प्रणवे तथा । प्रणवं ब्रह्मणि स्थाप्य न किञ्चिदपि चिन्तयेत् ॥१३६।।