________________
२२६२ . बृहद्योगियाज्ञवल्क्यस्मृतिः [द्वितीयो
इन्द्रियैरिन्द्रियार्थश्च तत्वैश्च परिवर्जितम् । ध्रुवं च शाश्वतं नित्यमचलं लयवर्जितम् ॥१०६।। अक्षरं चाजरं चैवमनुत्पन्नमनाशि च।। सर्वमात्राविनिर्मुक्तमानन्दं ब्रह्म निष्कलम् ॥११०।।
अघोषमव्यञ्जनमस्वरं च । ___ यत्कव्य (ण्ठ) तालव्यमनासिकं च । अरेफजातस्वरमोष्ठवर्जितं __तदक्षरं स्वरति स्वयं भवम् ॥११॥ ओंकारं विपुलमचिन्त्यमप्रमेयं
सूक्ष्माकारं ध्रुवमचलं शिवं पुराणम् । तद्विष्णोः पद (पदं) मुखपङ्कजप्रसूतं
देहान्तः स्थमनसि च यत् स्थितिं करोति ॥११॥ दशनामानि नैरुक्ता ओंकारस्य प्रचक्षते । अन्वर्थ कानि तानीह वेदितव्यानि धीमता ॥११३।। ओंकारं प्रणवं चैव सर्वव्यापिनमेव च । अनन्तं च तथा तारं शुक्लं वैद्यु तमेव च । ॥११४।। हंसंतुर्य परं ब्रह्म इति नामानि जानत । निष्कलस्य तु सर्वज्ञः पर्यायेण हि कीर्तितः ॥११॥ उच्चार्यमाणः सर्वत्र आपादतलमस्तकम् । उन्नामयेच्छरीरं तु ओंकारस्तेन चोच्यते ॥११६।। भृग्यजुः सामाथर्वाणि देवताश्चाक्षरत्रयम् । शरीरं वाङ्मनश्चैव प्राणनात् प्रणवः स्मृतः ॥११७।।