SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] आंकारनिर्णयवणनम् २२६१ ओंकारं समभिध्यायेद्हृदि कृत्वा तु धारणाम् | ऋषिपुत्रो महातेजा वाग्विशुद्धो महेश्वरः ॥६॥ त्रिरात्मा त्रिस्वभावश्च तथा त्रिव्यूह एव च। पाञ्चरात्रे स्मृतो ह्येष भगवद्वाचकः स्मृतः ॥१००।। बलं वीर्य तथा तेजस्त्रिरात्मा इति संशितः । ज्ञानेश्वयं तथा शक्तिस्त्रिस्वभाव इति स्मृतः ॥१०॥ सकर्षणोथ प्रद्युम्नो (म्नः) अनिरुद्धस्तथैव च । त्रिव्यूह इति निर्दिष्ट ओंकारो विष्णुरव्ययः ॥१०२॥ भगवद्वाचकः प्रोक्तः प्रकृतेर्वाचकस्तथा। व्यक्ताऽव्यक्तो वासुदेवः प्रभवः प्रलयस्तथा । वाथुलेरेकमात्रस्तु ओंकारः समुदाहृतः ॥१०॥ यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः। यदिच्छन्तो ब्रह्मचर्य चरन्ति .. तत्ते पदं संग्रहेणाभिधास्ये ॥१०४॥ ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥१०॥ एवं त्रिषष्टिभेदैस्तु सिद्धान्तेषु प्रगीयते । स्थूलभेदेन चोंकारश्चतुःषष्टि (ष्ठ) स्तु निष्कलः॥१०६।। विष्णुंनिरञ्जनं शान्तमानन्दं सर्वदेहिनाम् । अक्षरं तं विजानीयात् स्थूलं च क्षरसंज्ञितम् ॥१०७।। न च स्थूलं न च ह्रस्वं न च दीर्घ न च प्लुतम् । न लोहितं न कृष्णं च सर्ववर्णविवर्जितम् ॥१०८।।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy