________________
ऽध्यायः] ओंकारनिर्णयवर्णनम्
. २२५६ भूर्भुवः स्वरिति चैव चतुर्विशाक्षरा तथा। गायत्री चतुरो वेदा ओंकारः सर्वमेव तु ॥७॥ ऋग्वेदे स्वरितोदात्त एकाक्षर उदाहृतः। त्रैस्वयं च तथोदात्तो यजुर्वेदे च पठ्यते ॥७॥ दीर्घप्लुतः सामवेदे ओंकारस्तु न संशयः । संक्षिप्तोदात्तमेवाहुरेकाक्षर उदाहृतः ... ॥६॥ अकारश्च उकारस्तु प्रविष्टो ह्येकदा यदा। अउवर्णसमायोगादोंकारः समपद्यत ॥८॥ अनुस्वारो मकारस्तु ओंकारस्य शिरो यदा। प्रकृतिः साधनं कृत्वा व्यञ्जनादौ तु लुप्यते ॥१॥ नपुंसकस्तथोंकारो वेदानां परिकीर्तितः। अपांतरतमो ज्ञेयो वेदसिद्धान्तयोरपि ॥२॥ त्रिकालं च त्रिलिङ्गं च त्रिसंज्ञं च तथा विदुः । सनत्कुमारसिद्धान्ते ओंकारः समुदाहृतः ॥८३।। भूतं भव्यं भविष्यं च कालत्रयमुदाहृतः । स्त्रीनपुंसकश्चैव त्रिलिङ्ग इति स स्मृतः ॥८४॥ बहिःसंज्ञो मध्यसंज्ञ अन्तःसंज्ञ इति स्मृतः । उद्गीथमक्षरं ह्येतदुद्गीथश्च उपास्यते ॥८॥ ओमित्युद्गीयते ह्यष भूते भव्ये भविष्यति । त्रिस्थानं त्रिपदं चैव त्रिसंज्ञं च प्रकीर्तितम् ॥६।। ब्रह्मिष्ठानां भवेदेवं गुह्य पूपनिषत्सु च । हृत्कण्ठतालुकादीनि स्थानानि समुदाहरेत् ॥८॥