SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ २२५८ बृहद्योगियाज्ञवल्क्यस्मृतिः द्वितीयो हिरण्यगर्भः कपिलैरपान्तरतमैस्तथा। सनत्कुमारैर्ब्रह्मिष्ठेस्तथा पाशुपतैरपि ॥६७|| पाश्चरात्रैः सदोधु क्तः सिद्धान्तैरपि सप्तभिः । भेदैत्रिषष्टिभिभिन्नमेकैकं नवधा पुनः ॥६॥ त्रिमात्रं चैव त्रिब्रह्म त्र्यक्षरं प्रणवं प्रभुम् । हिरण्यगर्भा इच्छन्ति योगसाधननिश्चितम् (...नमुत्तमम् ) ॥६६॥ अनिर्वायुस्तथादित्यस्तिस्रो मात्राः प्रकीर्तिताः । भृग्यजुश्च तथा साम त्रिब्रह्मति प्रकीर्तितम् ॥७०।। अकारश्चाप्युकारश्च मकारश्चाक्षरत्रयम् । ओंकारः परमं धाम ओंकारः परमा गतिः ।।७१।। ओंकारं विन्दते यस्तु तस्य जन्म न विद्यते । त्रिप्रशं च त्रिगुणं त्रिकारणमिति कापिलाः ॥७२।। व्यक्तोऽव्यक्तस्तथाज्ञश्च विप्रज्ञ इति स स्मृतः । ओंकारस्त्रिगुणं सर्व व्यञ्जनं निर्गुणं विदुः ।।७३।। त्रिमुखं च त्रिदैवत्यं त्रिप्रयोजनमेव च।। अपान्तरतमैश्चैव ओंकारस्तु प्रकीर्तितः ॥७४|| गार्हपत्यो दाक्षिणाग्निराहवनीयस्तृतीयकः। त्रिमुखः स तु विज्ञेयो ब्रह्मविष्णुमहेश्वराः ॥७॥ एतत् त्रिदैवतं ज्ञेयं धर्मश्चैवार्थ एव च।। कामेन सहितौ हतौ त्रयं प्रोक्त प्रयोजनम् ॥७६।।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy