________________
ऽध्यायः] ओंकारनिर्णयवर्णनम् २२५७
कश्चिदाराधनाकामो विष्णोर्भक्त्या करोति वै। तदाराधनसिद्धयर्थं प्रतिमां व्यञ्जिकां यथा ॥५७।। धातुदादिपाषाणैः कृत्वा भावं निवेशयेत् । भक्त्या श्रद्धादराभ्यां च तस्य विष्णुः प्रसीदति ।।८।। आर्यः प्रपूजितो यत्र प्रत्यक्षे च फलप्रदः । ओंकारेण तथा ह्यात्मा उपास्तः स प्रसीदति ॥५६।। एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मभूयाय कल्पते ॥६॥ अदृष्टविग्रहो देवो भावग्राह्यो मनोमयः । तस्योंकारः स्मृतो नाम तेनाहूतः प्रसीदति । तस्मादोमिति पूर्व तु कृत्वा युञ्जीत तत्परः ॥६१।। ब्रह्मविदोऽनेकविधाः सततं येन प्रवर्तन्ते । गूढब्रतस्य हि सदा विशुद्धबुद्ध स(सु) गूढठित्तस्य । प्रणवध्यानपरस्य च स(सु) गूढतपसो भयं नास्ति ॥६॥ एकाक्षरं परं ब्रह्म प्राणायामः परं तपः। सावित्र्यास्तु परं नास्ति मौनात् सत्यं विशिष्यते ॥६३।। प्रणवे नित्ययुक्तस्स्य व्याहृतीषु च सप्तसु।। त्रिपदायां च गायत्र्यां न भयं विद्यते कचित् ॥६४।। आद्यास्तु व्याहृतीस्तिस्रो गायत्रीस्वशिरोय (यु) ताम् । ओंकारं विन्दते यस्तु स मुनिर्नेतरो जनः ॥६।। एक एव हि विज्ञेयः प्रणवो योगसाधनम् । गृहीतः सप्तसिद्धान्तरैरन्यैश्च ब्रह्मवादिभिः ॥६६॥