________________
२२५६
बृहद्योगियाज्ञवल्क्यस्मृतिः ब्रह्मापि तद्वत् प्रणवोपहृतं वक्तारमागच्छति आशु वक्त्रे ||४६ ||
यत् ।
[ द्वितीयो
ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च शब्दब्रह्माणि निष्णातः परं ब्रह्माधिगच्छति
अन्तःशरीरप्रभवमुदानप्रेरितं च यत् । वागुच्चायं श्रोत्रवृत्ति शब्दब्रह्म तदुच्यते ||४८|| शब्दब्रह्मात् परं ब्रह्म तस्मिन् क्षीणे यदक्षरम् | तदक्षरं सदा ध्यायेद्यदीच्छेद्योगमात्मनः ॥४६॥ अकारश्चाप्युकारश्च मकारो बिन्दुरेव च । मात्रास्तद्विनियोगश्च प्रणवः पश्ञ्चलक्षणः ||५०| ओंकारः प्रणवे योज्यो ब्रह्मणि प्रणवस्तथा । आनन्दं तत् परं ब्रह्म तत् प्रविश्यामृती भवेत् ॥५१॥ बेदादौ यः स्वरः प्रोक्तो वेदान्ते यः प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ||५२॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन ॥५३॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमतेन वेद्धव्यं शरवत्तन्मयो भवेत् ||५४|| सदेहमरणि कृत्वा प्रणयं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥५५॥ शब्दस्पर्शादिभिश्चैव रसरूपैरलक्षितः ।
देवतायाः परस्यास्तु आलम्बः प्रणवः स्मृतः || ५६॥
॥४७॥