________________
ऽध्यायः]
ओंकारनिर्णयवर्णनम् सर्वे वेदा यत्पदमामनन्ति ___तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचयं चरन्ति
तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥३७॥ एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परम् ।। एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥३८॥ सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूाधायात्मनः प्राणमास्थितो योगधारणाम् ॥३६॥ ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरम् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥४॥ आद्य यदक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता। स गुह्योन्यस्त्रिवृद्व दो यो वेदैनंस वेदवित् ॥४१॥ यथा वै शकुना पर्ण संवृता एव सर्वतः। एवं सर्वास्तु वै वाचः संतीर्णा प्रणवेन तु ॥४२॥ क्लेशकर्मविपाकैश्च वासनाभिस्तथैव च।। अपरामृष्टमेवाह पुरुषं हीश्वरं श्रुतिः ॥४३।। वाच्यो यज्ञेश्वरः प्रोक्तो वाचकः प्रणवः स्मृतः । : वाचकेन तु विज्ञातो वाच्य एव प्रसीदति ॥४४॥ तदर्थं प्रणवं जप्यं ध्यातव्यं सततं बुधैः । । ईश्वरः पुरुषाख्यस्तु तेनोपास्तुः (स्तः) प्रसीदति ॥४॥
यथा हि गौर्वत्सकृतं निशम्य .... __हुंकृत्यवत्साभिमुखी प्रयाति ।।
4