SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ २२५४ बृहद्योगियाज्ञवल्क्यस्मतिः [द्वितीयोएकैका तु भवेन्मात्रा त्रिगुणा सा तु वै पुनः। तासां सवं वाङ्मयं यदोतं प्रोतं व्यवस्थितम् ॥२६॥ प्रथमा तस्य अकारो वाक् सत्वं भूहुताशनो विष्णुः । स्थूला जाग्रवृत्तिविज्ञेया योगतत्वज्ञैः ॥२७॥ ब्रह्मान्तरिक्षसंज्ञो मनोरजः सोमसंज्ञक उकारः । मात्रा स्वप्नविकल्पा (वि) सृष्टिसंज्ञा द्वितीया तु ॥२८॥ रौद्री मकारसंज्ञा प्राणाख्या तामसी तृतीया तु । संहरति जगत् समस्तं (सर्व) सौषुम्णाख्या महानिद्रा ॥२६॥ आद्या परतरा सूक्ष्मा शान्ता गान्धर्वनिरवयवा। अनभिलक्ष्या सौम्या मकारसंज्ञा विज्ञानाकाशसंबद्धा ॥३० प्रपञ्चो ब्रह्मणश्चोक्तः सार्धमात्रात्रयं बुधैः।। अउमिति तिस्त्रो मात्रा मकारश्चार्धमात्रकः ॥३॥ तिस्रो मात्रा लयं यान्ति अर्धमात्रे न संशयः। अर्धमात्रात्वमात्रे तु लयं याति निरामये ॥३२॥ अकारे पीड्यमाने तु उकारं प्रतिपद्यते। उकारे पीड्यमाने तु मकारं प्रतिपद्यते ॥३३॥ मकारे पीड्यमाने तु अर्धमात्रा तदा भवेत् । .. जिह्वायां पीड्यमानायां निरालम्बं तदा भवेत् ॥३४॥ एकमात्र द्विमानं च त्रिमात्रं कृत्स्नमेव च । हस्वदीर्घप्लुतं शान्तं शान्तेन मनसोद्धरेत् ॥३॥ समाहितमना भूत्वा तत्वध्यानपरायणः । ओंकारं यस्त्वभिध्यायेदध्यात्मैक इति स्मृतः ॥३६।।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy