________________
२२५3
ऽध्यायः]
ओंकारनिर्णयवणनम् ओंकारः प्रणवस्तारस्ठ्यक्षरस्त्रिगुणः स्मृतः । उद्गीथश्च तथादित्यो हंसो नारायणो विभुः ॥१५॥ सूर्यस्यान्तर्गतं सूक्ष्म विष्णुं दिव्यं निरञ्जनम् । पर्यायैश्च तथा चान्यैः शास्त्रेभ्यः संप्रगीयते ॥१६।।
ओंकारसंज्ञं त्रिगुणं त्र्यक्षरं च त्रिदैवतम् । त्रिब्रह्म त्रिरवस्थानं त्रैकाल्यं त्रिप्रतिष्ठितम् ॥१७।। त्रिप्रज्ञं च त्रिधामं च त्रिरवस्थं त्रिलिङ्गकम् । विधातुकं समुद्दिष्ट सर्वगं परमेश्वरम् ॥१८॥ सत्वं रजस्तमश्चैव त्रिगुणस्तेन स स्मृतः । अकारश्चाप्युकारश्च मकारश्चाक्षरत्रयम् ॥१६॥ ब्रह्मा विष्णुश्च रुद्रश्च त्रिदेवत्य उदाहृतः। अनिवायुरविभ्यश्च त्रिमात्र इति संज्ञितः ॥२०॥ ऋग्यजुश्च तथा साम त्रिब्रह्म इति संशितः। भूर्भुवः स्वलयवस्थानं हृत्कण्ठं तालुकेति च ॥२॥ तुर्ये प्राणे तथाऽऽदित्ये त्रिषु चैव प्रतिष्ठितम् । भूतं भव्यं भविष्यं च त्रैकाल्यं तेन चोच्यते ॥२२॥ अन्तःप्रज्ञो बहिःप्रज्ञो घममा उदाहतः । गार्हपत्यो दक्षिणानिराहवनीयविधामकम् ॥२३॥ शान्तो घोरस्तथा मूढखिरवस्थ इति स्मृतः। स्त्री पुं नपुंसकं चेति त्रिलिग इति स स्मृतः ॥२४॥ वातः पित्तं तथा श्लेष्मा त्रिधातुः समुदाहृतः । त्रिप्रकारं विदित्वा तु ओंकार मुच्यते द्विजः ॥२५॥