________________
२२५२
बृहद्योगियाज्ञवल्क्यस्मृतिः द्वितीयोगायत्री च भवेच्छन्द अग्निर्दैवतमुच्यते । आदौ सर्वत्र युञ्जीत विविधेष्वेव कर्मसु ॥४॥ विनियोगः समुद्दिष्टः श्वेतो वर्ण उदाहृतः । त्रिमात्रश्च प्रयोक्तव्यः कर्मारम्भेषु सर्वदा ॥॥ तिस्रः सार्धास्तु कर्तव्या मन्त्रतत्त्वार्थचिन्तकैः। देवताध्यानकाले तु प्लुतं कुर्यान्न संशयः ॥६॥ तैलधारावदच्छिन्नं दीर्घघण्टानिनादवत् । अवाजं प्रणवास्यान्तं यस्तं वेद स वेदवित् ॥७॥ वक्र तद्भवति ह्यादौ ओंकारं चतुरक्षरम् । ऋजुत्वं संप्रपद्यत पदं प्राप्य तु पञ्चमम् ॥८॥
ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥६ तस्मादोमित्युदाहृत्य यज्ञदानतप क्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥१०॥ उद्गीथाक्षरमेद्ब्रह्मविदो ब्रह्मणो योगम् । पाशुपताश्च वदन्ति हि साङ्ख्याश्चाध्यात्मतत्वज्ञाः ॥११॥ मात्रास्तिस्त्रो व्यक्ताऽव्यक्ता तथा परा सूक्ष्मा । अध्यात्मामधिभूतामथाधिदैवीं विजानीयात् ॥१२॥ सिद्धान्तानां तु सर्वेषां वेदवेदान्तयोस्तथा । अन्येषामपि शास्त्राणां निष्ठाकारमुच्यते ॥१३॥ प्रणवाद्याः स्मृता वेदाः प्रणवे पर्युपस्थिताः। वाङ्मयं प्रणवः सर्व तस्मात् प्रणवमभ्यसेत् ॥१४॥