SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ओंकारनिर्णयवर्णनम् ॥४१॥ 118211 आत्मा संछादितो देवैर्मृत्युभीतैश्च वै पुरा । आदित्यैर्वसुभी रुद्रस्तेन च्छन्दांसि तानि वै ॥४०॥ यस्य यस्य तु मन्त्रस्य उद्दिष्टा देवता तु या । तदाकारं भवेत्तस्य दैवतं देवतोच्यते पुराकल्पे समुद्दिष्टा मन्त्राः कर्मार्थसिद्धये । अनेनेदं तु कर्तव्यं विनियोगः स उच्यते निरुक्तं यत्र मन्त्रस्य समुत्पत्तिः प्रयोजनम् । प्रतिष्ठानं स्तुतिश्चैव ब्राह्मणं तदिहोच्यते एतत् पञ्चविधं योगं जपकाले ह्यनुस्मरेत् । होमे चान्तर्जले योगे स्वाध्याये यजने तथा ॥४४॥ इति (श्री) बृहद्योगियाज्ञवल्क्ये (मन्त्रयोगनिर्णयो नाम) प्रथमोऽध्यायः ||१| ||४३|| ऽध्यायः ] अथ द्वितीयोऽध्यायः ओंकार निर्णयवर्णनम् २२५१ 11211 प्रणवाद्याः स्मृता मन्त्राश्चतुर्वर्गफलप्रदाः । तस्माच्च निःसृताः सर्वे प्रलीयन्ते च तत्र वै मङ्गल्यः पावनो धन्यः सर्वकामप्रसाधनः । ओंकारः परमं ब्रह्म सर्वमन्त्रेषु नायकः ॥२॥ प्रजापतेर्मुखोत्पन्नस्तपः सिद्धस्य वै पुरा । तेनोपात्तमतस्तस्य ब्रह्मानं (ब्रह्माऽऽषं) च स्वयभुवः ॥३॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy