________________
२२५० बृहद्योगियाज्ञवल्क्यस्मृतिः [प्रथमो
यातयामानि च्छन्दांसि भवन्त्यल्पफलान्यपि । अन्तर्जलादिके जप्ये इतरेषामजानताम् ॥२६।। नाधिकारोस्ति मन्त्राणामेवं श्रुति निदर्शनम् । अल्पमात्रं फलं तस्य होमादन्त लाजपात् ॥३०॥ स्वाध्यायाद्याजनाच्चैव भवतीह न संशयः । यस्तु जानाति तत्त्वेन आर्ष छन्दश्च दैवतम् ।।३।। विनियोगं ब्राह्मणं च मन्त्रार्थ ज्ञानकर्मणी । एकैकस्या ऋचः सोऽपि वन्द्योह्यतिथिवद्भवेत् ॥३२॥ देवतायाश्च सायुज्यं गच्छत्यत्र न संशयः। पूर्वोक्तन विधानेन ऋष्यादीन् वेत्ति यो द्विजः ॥३३।। अधिकारो भवेत्तस्य रहस्येषु च कर्मसु । मन्त्रे मन्त्रे प्रयत्नेन ज्ञातव्यं ब्राह्मणेन तु ॥३४॥ विज्ञाते परिपूर्ण तु स्वाध्यायफलमश्नुते । छन्दस्यियातयामानि भवन्ति सफलान्यपि ॥३३॥ श्रेयश्च लभते सोऽपि धर्ममायुश्च विन्दति । दिव्यं वर्षसहन तु स्वस्थानमृषिभिः सह ॥३६।। संतिष्ठते तु तैः साधं तत्तुल्यो वेह जायते । फलं चैवापवादं च एवं बुध्ठा विधानतः ॥३७|| ज्ञातव्यं हि प्रयत्नेन ब्राह्मणेन विशेषतः । येन यदृषिणा दृष्ट सिद्धिः प्राप्ता च येन वै ॥३॥ मन्त्रेण तस्य तत् प्रोक्तमृषिभावस्तदाषकम् । छादनाच्छन्द उद्दिष्टमाकृतेर्वाससी यथा ॥३।।