________________
ऽध्यायः]
मन्त्रयोगनिणयवर्णनम् २२४६ का विद्या का ह्यविद्या च किं वा निःश्रेयसं परम् । किमधीयीत वै विप्र एतत् सवं वदस्व नः ॥१६॥ एतच्छ त्वा तु वचनं मुनीनां भावितात्मनाम् । तथा राजर्षीणां च स्वशिष्याणां तथैव च ॥२०॥ ब्राह्मणानां हितार्थाय सर्वयोगविदां वरः। आविष्कर्तुमनाः प्रश्न विस्तरेण महामतिः ॥२१॥ भगवान् याज्ञवल्क्यस्तु प्रत्युवाच मुनीस्तदा। श्रूयतां संप्रवक्ष्यामि यत् सारं ज्ञानमुत्तमम् ॥२२॥ वेदान्ताभिहितं यच्च स्मृतिसिद्धान्तयोरपि । तत् सर्व संप्रवक्ष्यामि योगसारसमुच्चयम् ॥२३॥ येन यत् क्रियते कर्म नैत्यकं यद्विजातिभिः । ब्राह्मण्यं लभते येन ब्रह्मसायुज्यतां व्रजेत् ॥२४।। ओंकारो व्याहृतयश्च गायत्री सशिरस्तथा । वैदिकं च तथा कर्म अब्लिङ्ग चाघमर्षणम् ॥२।। प्राणायामस्तथा संध्या मार्जनान्तर्जलं जपः । सर्वमेव हि कर्तव्यं ब्राह्मणैर्ब्रह्मचिन्तकैः ॥२६॥ आषं छन्दश्च दैवत्यं विनियोगस्तथैव च । वेदितव्यं प्रयत्नेन ब्राह्मणेन विपश्चिता ॥२७॥ अविदित्वा तु यः कुर्याद्याजनाध्ययनं जपम् । होममन्तर्जलादीनि तस्य चाल्पं फलं भवेत् । आपद्यते स्थाणुगर्ने स्वयं वाऽपि प्रमी(ली)यते ॥२८॥