________________
२२४८ बृहद्योगियाज्ञवल्क्यस्मृतिः [प्रथमो
प्राणायाम तथा ध्यानं संध्योपासनमेव च । मार्जनाभ्युक्षणे स्नानं तथैवान्तर्जलं जपम् ।। ८ ॥ गायत्र्याश्चैव माहात्म्यं जपयज्ञप्रयोजनम् । उपस्थानं तथार्कस्य सारूप्यमपि चैव हि ॥६॥ तस्या(स्य)चान्तर्गतो यात्मा कथं विज्ञायते तु सः। त्वं हि जानासि तत्त्वेन स्वेन योगबलेन च ॥१०॥ यजुष्यभ्यस्यमानेन पुरस्ताद्भास्करोह्ययम् । साक्षाद्भगवता दृष्टस्तेन पृच्छामहे वयम् ॥११॥ आर्ष छन्दश्च मन्त्राणां देवत्यं ब्राह्मणं तथा । विनियोगं च मन्त्राणामोंकारादेश्च यद्विभो ॥१२॥ किमुक्त भवतीत्येतज्ज्ञातेऽज्ञाते च किं भवेत् । ब्राह्मण्यं च भवेत् केन किं वा नित्यमुपास्यते ॥१३॥ किं वा सत्यं भवेद्ब्रह्म संध्या येन उपास्यते । कथं संमार्जनं कुर्यान्मन्त्रैर्वरुणदेवतैः ॥१४॥ अन्तर्जलं च कतमैः कतमैः प्राणसंयमम् । सूर्यस्य चाप्युपस्थानं कुर्यान्मन्त्रैः किमात्मकैः ।१।। केनाक्षरेण मन्त्रेण धारणा धार्यते कथम् । किं ध्यानं किं च वै ध्येयं किं लक्ष्यं किं स्वरूपकम् ॥१६॥ यच्चोपास्य विमुच्येत तत् परं ब्रूहि नो विभो। होमकाले तथाग्नौ तु मध्ये किं परिचिन्तयेत् ॥१७॥ यस्य चैवाहुति दद्यात् किं ते ( तत् ) ब्रह्म किमात्मकम् । तथानयज्ञकाले तु स्वदेहे चिन्तयेत् कथम् ॥१८॥