SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ * श्रीगणेशाय नमः अथ श्रीबृहद्योगियाज्ञवल्क्यस्मृतिः प्रथमोऽध्यायः तत्रादौ मन्त्रयोगनिर्णयवर्णनम् ब्रह्मकल्पं महामुनिम् ॥ ३ ॥ मिथिलास्थं महात्मानं सर्वयोगीश्वरेश्वरम् । भगवन्तं याज्ञवल्क्यं मुनिसङ्घैः समावृतम् ॥ १ ॥ जनकाद्यै नृपवरैः शिष्यैश्चान्यैर्मुमुक्षुभिः । योगसिद्ध स्तथान्यैश्च संवृतं ब्रह्मवादिभिः ॥ २ ॥ सुखासीनं मुनिवरं ध्यानयोगपरायणम् । सर्वसंशयच्छेत्तारं तं पृच्छन्ति महात्मानमृषयः संशितव्रताः । संसारतारणार्थाय गुह्यं ब्रह्म सनातननम् ॥ ४ ॥ भगवन् सर्वयोगीश त्र हि नः संशयो महान् । यः सारः सर्ववेदानां वेदान्तानां तथैव च ॥ ५ ॥ सिद्धान्तानां च सर्वेषां स्मृतीनां च महामुने । चतुर्दशानां विद्यानां यस्तु सारः प्रकीर्तितः ॥ ६ ॥ आत्मज्ञानं परं यच्च यज्ज्ञात्वामृतमश्नुते । ओंकारं व्याहृतींश्चैव गायत्रीं तच्छिरस्तथा ॥ ७ ॥ १४१
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy